संस्कृत गीत
कालिदासो जने-जने
कण्ठे-कण्ठे संस्कृतम् ।
ग्रामे-ग्रामे नगरे-नगरे
गेहे गेहे संस्कृतम् ॥
कालिदासो.....
सरला भाषा मधुरा भाषा,
दिव्य भाषा संस्कृतम् ।
मुनिजनवाणी कविजनवाणी
प्रियजन वाणी संस्कृतम्॥
कालिदासो जने-जने
कण्ठे-कण्ठे संस्कृतम् .....
वसतो-वसतो रामचरितम्
प्रियजन भाषा संस्कृतम् ।
सदने-सदने भारत देशे
ग्रामे-ग्रामे संस्कृतम् ॥2
कालिदासो जने-जने
कण्ठे-कण्ठे संस्कृतम् ..
मुनिजन वाञ्छा कविजन वाञ्छा
प्रियजन वाञ्छा संस्कृतम् ।
वदने-वदने कार्यक्षेत्रे
वार्तालापे संस्कृतम् ॥3
कालिदासो जने-जने
कण्ठे-कण्ठे संस्कृतम् ......
कालिदासो जने-जने
कण्ठे-कण्ठे संस्कृतम् ।
ग्रामे-ग्रामे नगरे-नगरे
गेहे गेहे संस्कृतम् ॥
कालिदासो.....
***