Sunday 30 May 2021

विश्वहितं ते चरितं ವಿಶ್ವ ಹಿತಂ ತೇ ಚರಿತಂ others VISHWA HITAM TE CHARITAM rss

 



*

विश्वहितं ते चरितं नीतिनिधानम्

*शिवराजः*


विश्वहितं ते चरितं नीतिनिधानम्।


त्वां नमामि शिवनृपाल! संततं स्मरामि ते।।

विशुद्धशील! अखिलविश्ववंद्य- भूपते!


त्वं जनपदसंस्कर्ता

त्वं जनगणधीदाता

गोद्विजपरिपालकशिवसाधूनां त्वं त्राता

त्वाम् अभिजनमार्तानां बांधवमतिदीनानां

श्रीशिवनृपवर्य! भजति मे हृदयम्


राष्ट्रमिदं दुष्टाभिहतं

क्षीणबलं येनोत्थापीतमखिलं

तं प्रबलं वीरप्रवरं

भूपवरं चिंतये


हे जगदभिराम! दुष्टखलविराम!

पुरीतशुभकाम! पुण्यचरितधाम!

देवपरमवीर! शत्रुशमनधीर!

विश्वहितं ते चरितं नीतिनिधानम्

***

|| प्रभो शिवाजी राजा || भारतमाता की जय ||


No comments:

Post a Comment